________________
-प्रदीप
[२२५] एकः कुर्यात्परोनैव, राजाऽऽज्ञेति च किं भवेत्॥१५७॥ स्वभावाऽभाव सत्त्वे च यदि कार्य प्रजायते। तर्हि वन्ध्या प्रसूतिं किं, नकुर्यात्कारणं वद ॥१५८॥ अतः कर्तृत्व स्वाभावस्वीकारेऽपि गतिर्नहि । अस्वीकारे स्वभावे च, दोषापत्तिस्तथैव च ॥१५॥ नित्यमेकस्वरूपेशः, जगद्रचयिता खलु । इत्यपि पक्षस्वीकारे, रचना नैव सम्भवेत् ॥१६०॥ संहारोऽपि न युज्येत, संशय भावतः खलु । .. एकेनैव स्वरूपेण, कार्यद्वयीं करोति सः ॥१६॥ किं तेनैव स्वरूपेण, अथवा भिन्नरूपतः। एकेनैव स्वरूपेण, कार्यद्वयीं करोति चेत् ॥१६२॥ एतत्पक्षे च मन्तव्ये, तद् द्वयी युगपद् भवेत् । स्वीकारे भिन्नपक्षे वै, स्वरूपभेदस्पष्टतः ॥१६॥ ईश्वरस्थाप्य-नित्यत्वमागच्छेन्नात्र संशयः । रजो गुणेन निर्माणं, तमो गुणेन संहृतिः ॥१६४॥ सत्त्वगुणेन स्थैर्य स्यात्स्पष्टा स्वरूप भिन्नता। कार्यभेदे स्वरूपस्य, भेद ततोऽप्यनित्यता ॥१६॥ किं चेश्वरो भवेन्नित्यः, स्वान्ते इत्यपिधार्यताम् ।