________________
[२०]
योग
हस्तिना हस्तिभारो हि, चोह्यते नान्यप्राणिभिः । इति विचार्य संघा दत्ता तेभ्यश्च स्वामिता ||६|| योगप्रदीपशास्त्रस्य, मुद्रापणोपदेशनम् । स्वीकृतं तत्कनिष्ठेन, प्राणजीवनबन्धुना ॥७॥ तत्क्षणे गुरुणा तत्र विचार्य मानसे निजे । प्रोक्तं तस्यैव नैकश्ये, श्रूयतां वचनं मम ॥८॥ भवतां संघ हट्टेषु, ज्ञानद्रव्यं च विद्यते । यदि संघस्य चेच्छा चेत्तत्र गत्वा प्रबुध्यताम् ॥६॥ संघसार्थं च सम्मील्य, ज्ञापितं बोधवाचिकम् । योगप्रदीपशास्त्रस्य, मुद्रापणं वरं मतम् ॥ १०॥ हस्तागतो महान् लाभः, कथं संघैर्निषिध्यते । केशवादिमहाभागैः स्वीकृतं वचनं तदा ॥ ११॥ प्रफुल्लितस्वान्तेनैव, आगत्य गुरु सम्मुखे । संघवक्तव्यता तत्र, ज्ञापिता शुद्धभावतः ॥ १२॥ योगप्रदीपशास्त्रस्य, पञ्चशतं च संख्यकम् । पुस्तकं शुद्धभावेन, गृह्यते संघ गवैः ॥ १३॥
१ – श्रेोष्टवर्य केशवजी भाइ, हेमचन्द्र भाइ छगनलाल भाइ प्रभृति