________________
[२०२]
योगसमयं रुक्मिणी प्राप्य, पृच्छति जगदीश्वरम् । भगवान्तद्विचारश्च, ज्ञात्वोत्तरमदापयद् ॥२०॥ सहस्त्राणां च द्वात्रिंशत्स्त्रीभोगे ब्रह्मचारिता। आहारे क्रियमाणे च, उपवासी मुनिःकथम् ॥२०६॥ इत्यारेका च ते स्वान्ते, जाता सा महती खलु । परमार्थमजानाना, परिप्रष्टुं समागता ॥२१०॥ उत्तरं श्रूयतां देवि ! श्रुत्वा चैवावधार्यताम् । परस्त्री सर्वथा त्यागी,देशतो ब्रह्मचार्यतः ॥२१॥ द्वधा ब्रह्मव्रतं प्रोक्तं, सर्वतो देशतस्तथा । मुनीनां सर्वतो ज्ञेयं, नवकोटि विशुद्धितः ॥२१२॥ परस्त्री त्यागसद्भावाद्देशतो ब्रह्मचारिता। गृहमेधिषु सम्प्रोक्ता, देशतस्त्याग भावतः ॥२१३॥ तव स्वामी च श्रीकृष्णः, ब्रह्मचारी स देशतः। परस्त्री सर्वथा त्यागी,मन्तव्यो नात्र संशयः ॥२१४॥ स महापुरुषो ज्ञेयः, सम्यग्दृष्टिश्च सर्वथा। तीर्थकृन्नामकर्मत्व, पन्धकृत्पुरुषोत्तमः ॥२१॥ इति भागवतीं वाणी, श्रुत्वा प्रमोदवत्यभूदू । मुनिविषयिणी शङ्का, निर्णेतु सा प्रवर्तते ॥२१६॥