________________
-प्रदीप
[१८७]
क्रियते चानुमानञ्च, शास्त्रानुभवयोगतः। समस्त वस्तुनः साक्षात्कारी कश्चिच्च विद्यते ॥६॥ तद्ग्रहण स्वभावत्वे, प्रक्षीण प्रतिवन्धतः । यग्रहण स्वभावत्वे, प्रक्षीण प्रतिबन्धकम् ॥८॥ तत्साक्षात्कारितास्याव, रूपसाक्षात्कृतिर्भवेत् । यथाऽपगतसद्ध्वान्त, प्रतिबन्धक लोचनम् ॥१॥ तथा समस्त तत्वानां साक्षात्कारित्व नाशिनां । ज्ञानावारादि घातीनां, कर्मणां क्षयभावतः॥२॥ सुगतं धर्मिणं मत्वा, सर्वज्ञः स्वत्व साधकः । खपुष्पवच्च सो ज्ञेयः, मीमांसकैः मनोरथः ॥ ८३॥ सम्पूर्णया च सामग्र्या, सर्वज्ञत्वं प्रजायते। अतोहि व्यापकाभाव वच: प्रलापमात्रकम् ॥८४ ॥ पूर्वोक्त दोषसद्भावे, निषेध्यो नहि केनचित् । सुगतव्यक्तिनषेधे, सर्वज्ञत्वेन संमते ॥ ८५ ॥ सर्वसार्व निषेधोऽपि, नागत इति मन्यताम् । एकस्यापि निषेधे तु अपरस्य विधानकम् ॥८६॥ समागता च विज्ञेया, मर्यादेयश्च शाश्वती। विनाऽपरस्य विधानेन, एकस्य न निषेधता ॥ ८७॥