________________
AVRAN
-प्रदीप
[१७] सप्तमे चैव योगाङ्ग, ध्यानस्यैव निरूपणम् । आर्तरौद्रस्य भेदानां, दुष्टध्यानत्वदर्शनम् ॥१७॥ धर्मशुक्लस्य भेदानां, मोक्षहेतुत्ववर्णनम् । ध्यानशुक्लस्यभेदानां, शिवसाधकतादृढा ॥१८॥ परेषां ध्यानभेदत्वे, सदोषत्वप्ररूपणम् । तत्सर्व स्पष्टरूपेण, दर्शितं बोधहेतवे ॥१६॥ चतुर्भेदाख्यशुक्लस्य, सम्प्रज्ञातस्वरूपतः। पूर्वी तौ द्वौ च भेदौ हि, प्रोक्तौ च योगसप्तमे ॥२० उत्तरौ द्वौ च भेदौ तौ, असम्प्रज्ञातरूपतः। वर्णितौ परिज्ञातव्यौ, जैनशास्त्रानुसारतः ॥२१॥ विषयवर्णनं सूक्ष्म, दर्शितं योगदीपके । विस्तृतवर्णने कार्ये, विस्तारोऽत्र प्रजायते ॥२२॥ संक्षेपरुचिजीवानां, योगज्ञानस्य हेतवे । संक्षेपतश्च सम्प्रोक्तं, सर्व योगप्रदीपके ॥२३॥ अतस्तदनुसारेण, दृष्टव्यं योगदीपकम् । अवान्तरविभागानां, ज्ञानं च परिजायते ॥२४॥ अन्यदर्शनयोगानां, वर्णनं तुलनात्मकम् । कथितं तत्र ज्ञातव्यं, योगज्ञानं चिकीर्षता ॥२५॥