SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ योग [ १५६ ] प्रकृतेरानुकूल्येन, नियतकाल भोजनम् । तत्साम्यमिति गीयेत, स्वास्थ्यं सर्वत्र रक्षता ॥ १८०॥ पानाहारादयो यस्याविरुद्धाः प्रकृतेरपि । सुखित्वाया वकल्प्यन्ते, तत्साम्यमिति गीयते ॥ १८९ ॥ पितुर्मातुः शिशूनाञ्च गर्भिणीवृद्ध रोगिणाम् । प्रथमं भोजनं दत्वा, स्वयं भोक्तव्यमुत्तमैः ॥ १८२॥ त्रिवर्ग निरुपणं -- , अन्योऽन्या प्रतिबन्धेन, त्रिवर्गमपि साधयेत् । धर्मार्थकामनानाञ्च समूहश्चत्रिवर्गकः ॥ १८४ ॥ त्रिवर्गसाधनं सम्यक्, गृहस्थानां प्रचोदिम् । त्रिवर्ग विफलं यस्य, तस्य जन्मनिरर्थकम् ॥ १८४॥ धर्मार्थयोर्विनाशेन, केवलं कामसेवनात् । विपत्तेर्भाजनं सम्यक्, सम्यक्, भवेयुस्ते नराः सदा ॥ १८५ ॥ धर्मकाम विनाशेन, केवलं वसु प्रार्जनात् । सिंहवत् पापभागीस्यादुपभोगो न वै भवेत् ॥ १८६॥ अर्थकाम विनाशेन, केवलं धर्म सेवनम् । तत्कर्तव्यं मुनीनां स्याद्, गृहस्थानां न युज्यते ॥ १८७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy