SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwww [ १३२] योगरागद्वेषविनाशी क्व, क्व च रागमलीमसः। द्वयोः साम्यं न कर्तव्यं, हस्तिरासभयोर्यधा॥१६॥ क्व चिन्तामणि सद्रत्नं, क्व काचशकलं तथा । धर्मध्यानप्रलीनः क्व, क्व चार्तध्यान रूपकम् ॥१७॥ अवस्थायां प्रमादिन्यां, आत्मघातो विधीयते । अप्रमत्त शरीरादौ, संलेखनां समीहते ॥१८॥ अतो विचार्य वक्तव्यं, समंजसञ्च सर्वदा। तुलनात्मक दृष्ट्या च, तूलना सर्वदा मता ॥१६॥ आत्महितञ्च भावेन, भवेत्सर्वत्र सर्वदा । रत्नत्रितयरूपेण, आत्मन्येव गवेष्यताम् ॥२०॥ शरीरं नश्वरं त्याज्यं, येन केन प्रकारतः । अप्रमत्तत्वभावेन, प्रमत्तभावतस्तथा ॥२१॥ निष्कास्यते रसः सारो, यथेवादिकवस्तुषु । निस्सारश्च तुषादिस्तु, त्यज्यते सर्वमानवैः ॥२२॥ स्वपरोपकृतिसारः, सदैव देहधारिणाम् । यावत्कालं प्रजायेत, तावत्तेषाश्च रक्षणम् ॥२३॥ यदा तत्कार्यकर्तव्ये, शक्तिस्तेषु न विद्यते । तुषरूपस्य वैतस्य, त्यक्तव्ये दोषतां वद ॥२४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy