________________
-प्रदीप
[ ११५]
I
न्यासी कृतकवस्तूनां, अथवा चापलापनम् । न्यासाऽपहारनामाऽऽख्यः, द्वितीये पञ्चमो मतः ॥ ३३ ॥ स्तेनक्रियासु चौरस्य, या प्रेरणा विधीयते । ततस्तेन प्रयोगाख्यः, तृतीये प्रथमो मतः ॥ ३४॥ चौर्येणानीतरिक्तस्य, ग्राह्यं मुधाक्रयेणवा । आदानं स्तेन पार्खाश्च, द्वितीयश्च तृतीयके ॥ ३५॥ राज्याम्नायं समुल्लंघ्य, ग्राह्यमन्यविधेन वै विरुद्धराज्य इत्यारव्यः, अतिचारस्तृतीयके ॥३६॥ सुवर्णरुप्यसादृक्ष, कुत्सित द्रव्य वस्तुषु । वर्णादिना च निर्माय, लोके सुवर्णवत्तया ॥ ३७॥ प्रख्यापनञ्च सर्वत्र, विषये व्यवहारके | गृह्यतां सत्यसौवर्णमसत्यं परित्यज्यताम् ||३८|| प्रतिरूपक इत्यारव्यः, चतुर्थश्च तृतीयके । व्यवहारोप्यनादेयः सर्वदुःखस्य कारणम् ॥३६॥ कूडतूल कुमानेन परेषां प्रवितारणम् । कूटक्रयणमित्यारख्यः, तृतीये पञ्चमो मतः ॥ ४० ॥ स्वापत्या व्यतिरिक्तस्य, कन्यादानफलेच्छया । स्नेहसम्बन्धतो वापि, विवाहस्य च कारणम् ॥४१॥