________________
[१०८]
योगअज्ञानिनांचसंक्लेशः,एकान्तं हृदि मन्यताम्॥२६॥ स्याद्वादाश्रयणेनैव विद्यते नैव दूषणम् । सज्ज्ञानपूर्वकं कर्म, करणे दोषता न वै ॥२६॥ सापेक्षया च तत्मर्व, सत्यं मनसि मन्यताम् । निरपेक्षतया सर्वमसत्यं परिभाव्यताम् ॥३०॥ तदिदं स्थानकं षष्ठं, शुभभावेन ज्ञायताम् । सम्यक्त्व निर्मलं तस्माद्,दोषापत्तिर्न जायते।३०१॥ सप्तषष्टि विचाराणां, विचारो हृदये यदा। मोक्षप्राप्तिस्तदा तेषां,सासन्ना नात्र संशयः।३०२॥ यथा केवलज्ञानानां, मोहनीयं न रोधकम् । सहायि कारणं किन्तु, तत्क्षयः प्रणिगद्यते ॥३०॥ सद्दर्शनस्य वै तत्र, दृष्टिमोहो न रोधकः। सहायि कारणं ज्ञयंतच्चोपशमनादिकम् ।३०४। मतिज्ञानतिरोभावः, क्षयोपशमनादितः । जातं ततो निमित्तं तत्, कथ्यते परमार्थतः ॥३०॥ यावत्कारण सामग्री, बाह्याभ्यन्तरभेदिका । न मिलति तदा कार्य,कदापि नैव जायते ॥३०६॥ १–मतिज्ञानावरणादिकर्मक्षयोपशमादितः