SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [२] योग मोहनीयं तथा वेद्य, ज्ञानदर्शनरोधको । आयुष्कं नामगोत्रे च,अन्तरायोऽष्टकर्मणाम्॥७१॥ विनायुष्कं च सर्वेषाम्, कर्मणां कथिता स्थितिः । अपवर्तनयत्नेन, तस्याघातो विधीयते ॥७२॥ कर्मस्थितेश्च संहासे, निमित्तं यच्च कथ्यते । तदपवर्तना नाम, करणं प्रणिगद्यते ॥७३॥ बहुस्थितिक यत्कर्म, पूर्वे बद्धं प्रयोगतः। भुज्यते स्वल्पकाले वै, यत्नेनैवापवर्तने ॥७॥ तादृशं यत्र क्रियेत, स्थितिघातः स कथ्यते। रसाघातस्वरूपं तत्, यथाप्राप्त निरूप्यते ॥७॥ वनस्पतौ यथा वै तु, रसो सर्वत्र दृश्यते। रससत्तानुमीयेत, तथा वै कर्मपुद्गले ॥७६॥ जगति पुद्गलाः सन्ति, ये ते सर्वे रसान्विताः। कर्मणो वर्गणायाम्वै, यथानिम्बादिपुद्गले ॥७७॥ यथा कटुकता निम्बे, इक्ष्वादौ मधुरो मतः। पुण्यस्य मधुरस्तादृक् , पापस्य कटुको मतः ॥७॥ १ ज्ञानदर्शनावरणे २ अपवर्तनाकरणेन ३ रसस्य आघातः रसाघातः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy