SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्ख्येयविषयसङ्ख्याविशेषो गणनानन्तकम्, प्रदेशानां सङ्ख्येयानामनन्तकं प्रदेशानन्तकमिति । अथवेति एकत: एकेनांशेनायामलक्षणेनाऽनन्तकमेकतोऽनन्तकम् एकश्रेणीकं क्षेत्रम्, द्विधा आयाम-विस्ताराभ्यामनन्तकं द्विधानन्तकं प्रतरक्षेत्रम्, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकम्, सर्वाकाशस्य तु चतुर्थम्, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम् अनाद्यपर्यवसितं यज्जीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । ४९५ [सू० ४६४] पंचविहे णाणे पन्नत्ते, तंजहा- आभिणिबोहियणाणे सुयनाणे ओहिणाणे, मणपज्जवणाणे, केवलणाणे । पंचविहे णाणावरणिजे कम्मे पन्नत्ते, तंजहा - आभिणिबोहियणाणावरणिजे जाव केवलनाणावरणिज्जे । [टी०] एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह -- पंचविहेत्यादि, पञ्चेति पञ्चसङ्ख्या विधा : भेदा यस्य तत् पञ्चविधम्, ज्ञातिर्ज्ञानमिति भावसाधनः, संविदित्यर्थः, ज्ञायते वाऽनेनास्माद्वेति ज्ञानं तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायते वाऽस्मिन्निति ज्ञानम् आत्मा तदावरणक्षय-क्षयोपशमपरिणामयुक्तः, जानातीति वा ज्ञानं तदेव, स्वविषयग्रहणरूपत्वादिति, प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तं च– अत्थं भासइ अरूहा [आव०नि०९२] इति । तद्यथा— अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद् बोध: संवेदनमभिनिबोधः, स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिकम्, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, आभिनिबोधिकम् च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थ:, श्रूयते वा अनेनास्मादस्मिन् वेति श्रुतम्, तदावरणकर्म्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतम्, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् । तथा अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy