SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ४३७ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । इति । तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधम्, तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत् प्रतिघातो बन्धनप्रतिघातः, बन्धनग्रहणस्योपलक्षणत्वात् तत्सहचरप्रशस्तशरीर-तदङ्गोपाङ्ग-संहनन-संस्थानानामपि प्रतिघातो व्याख्येय:, तथा प्रशस्तगति-स्थिति-बन्धनादिप्रतिघाताद् भोगानां प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातः, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बल-वीर्य-पुरुषकार-पराक्रमप्रतिघातो भवतीति प्रतीतम्, तत्र बलं शारीरम्, वीर्यं जीवप्रभवम्, पुरुषकारः अभिमानविशेषः, पराक्रमः स एव निष्पादितस्वविषयः, अथवा पुरुषकारः पुरुषकर्त्तव्यम्, पराक्रमो बल-वीर्ययोर्व्यापारणमिति । [सू० ४०७] पंचविधे आजीवे पन्नत्ते, तंजहा-जातिआजीवे, कुलाजीवे, कम्माजीवे, सिप्पाजीवे, लिंगाजीवे ।। [टी०] देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह- पंचविहेत्यादि, जातिं ब्राह्मणादिकामाजीवति उपजीवति तज्जातीयमात्मानं सूचादिनोपदर्श्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम् उग्रादिकं गुरुकुलं वा, कर्म कृष्याद्यनाचार्यकं वा, शिल्पं तूर्णनादि साचार्यकं वा, लिङ्गं साधुलिङ्गं तदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते । [सू० ४०८] पंच रातककुधा पन्नत्ता, तंजहा-खग्गं, छत्तं, उप्फेसिं, पाहणाओ, वालवीयणिं । [टी०] अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्तम्, अधुना खड्गादिरूपं राज्ञां तदेवाह- पंच रायककुहेत्यादि व्यक्तम्, नवरं राज्ञां नृपतीनां ककुदानि चिह्नानि राजककुदानि, उप्फेसि त्ति शिरोवेष्टनम्, शेखरक इत्यर्थः, पाहणाउ त्ति उपानहौ, वालव्यजनी चामरमित्यर्थः, श्रूयते च अवणेइ पंच ककुहाणि जाणि रायाण चिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥ [ ] इति । [सू० ४०९] पंचहिं ठाणेहिं छउमत्थे उदिने परिस्सहोवसग्गे सम्मं सहेजा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy