SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ७५७ भूतपूर्वम्, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनराऽमर-तिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १ । ___तथा गर्भस्य उदरसत्त्वस्य हरणम् उदरान्तरसङ्क्रामणं गर्भहरणम्, एतदपि तीर्थकरापेक्षयाऽभूतपूर्वं सद्भगवतो महावीरस्य जातम्, २। तथा स्त्री योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थं द्वादशाङ्ग सङ्घो वा स्त्रीतीर्थम्, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति ३ । ___ तथा अभव्या अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतो वर्द्धमानस्योत्पन्नकेवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरा-ऽमर-तिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति ४ । ___ तथा कृष्णस्य नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्यम् ५ । __ तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६ । ___ तथा हरेः पुरुषविशेषस्य वंश: पुत्र-पौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत् कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः, कुलं ह्यनेकधा, अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति ७ । तथा चमरस्य असुरकुमारराजस्योत्पतनम् ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति प्रसिद्धम् ८ । तथाऽष्टाभिरधिकं शतमष्टशतम्, अष्टशतं च ते सिद्धाश्च निर्वृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९ ।
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy