________________
दशममध्ययनं दशस्थानकम् । त्यादिवक्तव्यता ज्ञेया। पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति । तेतली ति य त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते स नायम्, तस्य सिद्धिगमनश्रवणात् । ____ तथा दशार्णभद्रो दशार्णपुरनगरवासी समवसृतश्रीमहावीरजिनवंदनाधिकारे, इत्यादि विस्तरो [वृत्तौ]। इन्द्रर्द्धिगजेन्द्रविभूतिमालोक्यागत वैराग्यः प्रवव्रजा, सोऽयं दशार्णभद्रः सम्भाव्यते, परमनुत्तरोपपातिकाङ्गे नाधीत:, क्वचित् सिद्धश्च श्रूयत इति । ___ तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्र: षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्- इत्यादि विस्तरो वृत्तौ भगवत्यां च यावत्प्रव्रज्य सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति । दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः ।
आचारदशानामध्ययनविभागमाह- आयारेत्यादि, असमाधि: ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि, यैरासेवितैरात्मपरोभयानामिह परत्रोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशति: द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमम्, तथा एकविंशति: शबला: शबलं कर्बुर द्रव्यत: पटादि भावत: सातिचारं चारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति, तदर्थमध्ययनम् एकविंशतिशबला इत्यभिधीयते २ । तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा आ सामस्त्येन शात्यन्ते अपध्वस्यन्ते यकाभिस्ता आशातना रत्नाधिकविषयाविनयरूपा: पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३ । अद्वेत्यादि, अष्टविधा गणिसम्पत् आचार-श्रुत-शरीर-वचनादिका आचार्यगुणद्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४ । दसेत्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव