SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं दशस्थानकम् । ७३७ स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमं चकार, तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश परचक्रागमे अष्टशतमष्टशतम्, परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवं ब्राह्मणवक्तव्यतानिबद्धं पञ्चममिति ५ । ___ नन्दिसेणे य त्ति मथुरायां श्रीदामराजसुतो नन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं इत्येवमर्थं षष्ठमिति ६ । सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्र:, स च मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, इत्यादि सप्तमम्, इदं चाध्ययनं विपाकश्रुतेऽष्टममधीतम् ७ ।। उदुम्बरे त्ति पाटलीषण्डे नगरे सागरदत्तसार्थवाहसुत: उदुम्बरदत्तो नाम्नाऽभूत्, स च षोडशभिर्रागैरेकदाभिभूतो महाकष्टमनुभूय मृत:, इत्यादि वक्तव्यता प्रतिबद्धमष्टमम् ८ । ___ सहसुद्दाहे त्ति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः, सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, आमलए त्ति रश्रुतेर्लश्रुतिरित्यामरक: सामस्त्येन मारि:, एवमर्थप्रतिबद्धं नवमम्, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तः तद्वचनादेव एकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामेकोनपञ्चशतानि उपनिमन्त्र्य महति अगारे आवासं दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवान्, इत्यादि वक्तव्यता प्रतिबद्धं विपाकश्रुते देवदत्ताभिधानं नवममिति ९। तथा कुमारे लेच्छई इय त्ति कुमारा राज्यार्हाः, अथवा कुमारा: प्रथमवयस्थास्तान् लेच्छई इ य त्ति लिप्सूंश्च वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च, अयमत्र भावार्थ:- यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमार-वणिक्पुत्रादीन् मन्त्र-चूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती, षष्ठ्यां च गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अचूरित्य[भिधाना जाता, सा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy