SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७१४ जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, अणंतमीसए त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकायोऽयमित्यभिदधत: ७, परित्तमिस्सए त्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः ८, अद्धामिस्सए त्ति कालविषयं सत्यासत्यं यथा कश्चित कस्मिंश्चित प्रयोजने सहायांस्त्वरयन परिणतप्राये वासरे एव रजनी वर्त्तत इति ब्रवीति ९, अद्धद्धामीसए त्ति अद्धा दिवसो रजनी वा, तदेकदेश: प्रहरादिः अद्धाद्धा, तद्विषयं मिश्रकं सत्यासत्यं अद्धाद्धामिश्रकम्, यथा कश्चित् कस्मिंश्चित् प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह। - [सू० ७४२] दिट्टिवातस्स णं दस नामधेजा पन्नत्ता, तंजहा-दिट्टिवाते ति वा, हेउवाते ति वा, भूतवाते ति वा, तच्चावाते ति वा, सम्मावाते ति वा, धम्मावाते ति वा, भासाविजते ति वा, पुव्वगते ति वा, अणुजोगगते ति वा, सव्वपाण-भूत-जीव-सत्तसुहावहे ति वा ।। [टी०] भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो दशधाऽऽह- दिट्ठीत्यादि, दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवाद: दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपात:, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा- दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा हिनोति गमयति जिज्ञासितमर्थमिति हेतुः अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा, तद्वादो हेतुवादः, तथा भूताः सद्भूता: पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि वस्तूनामैदम्पर्याणि, तेषां वादस्तत्त्ववादः, तथ्यो वा सत्यो वादस्तथ्यवादः, तथा सम्यग् अविपरीतो वाद: सम्यग्वादः, तथा धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्मवादः, तथा भाषा सत्यादिका तस्या विचयो निर्णयो भाषाविचयः, भाषाया वा वाचो विजयः समृद्धिर्यस्मिन् स भाषाविजयः, तथा सर्वश्रुतात् पूर्वं क्रियन्त इति पूर्वाणि उत्पादपूर्वादीनि चतुर्दश, तेषु गत: अभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोग: प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थः, गण्डिकानुयोगश्च भरतनरपतिवंशजानां
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy