________________
६७६
यत्तत् क्रीतमिति । पामिच्चं अपमित्यकं साध्वर्थमुद्धारगृहीतम् । आच्छेद्यं बलाद् भृत्यादिसत्कमाच्छिद्य यत् स्वामी साधवे ददाति । अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं दीयमानम्, आह च- अणिसटुं सामन्नं गोट्ठियमाईण दयउ एगस्स । [पञ्चा० १३।१५] इति । अभ्याहृतं स्वग्रामादिभ्य आहृत्य यद्ददाति ।
कान्तारभक्तादय आधाकादिभेदा एव, तत्र कान्तारम् अटवी, तत्र भक्तं भोजनं यत् साध्वाद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते । तथा वईलिका मेघाडम्बरम्, तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति । प्राघुणका:
आगन्तुका: भिक्षुका एव, तदर्थं यद्भक्तं तत्तथा। तथा मूलं पुनर्नवादीनाम्, तस्य भोजनं तदेव वा भोजनम्, भुज्यत इति भोजनमिति कृत्वा, कन्दः सूरणादिः, फलं त्रपुष्यादि, बीजं दाडिमादीनाम्, हरितं मधुरतृणादिविशेष:, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। पंचमहव्वइए इत्यादि, प्रथम-पश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन उभयसन्ध्यमावश्यकेन य: स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति ।
तथा अविद्यमानानि जिनकल्पिकविशेषापेक्षया असत्त्वादेव, स्थविरकल्पिकापेक्षया तु जीर्ण-मलिन-खण्डित-श्वेता-ऽल्पत्वादिना, चेलानि वस्त्राणि यस्मिन् स तथा, धर्म: चारित्रम्, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्
जह जलमवगाहंतो बहुचेलो वि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेला वि ॥ [विशेषाव० २६००], अत:न च वस्त्रं संसक्ति-रागादिनिमित्ततया चारित्रविघाताय, अध्यात्मशुद्धेः, शरीराऽऽहारादिवदिति ।
जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, यतोऽभ्यधायिन परोवएसवसया न य छउमत्था परोवएस पि । दिति न य सीसवग्गं दिक्खंति जिणा जहा सव्वे ॥ तह सेसेहि य सव्वं कजं जइ तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेल त्ति को गाहो ? ॥ [विशेषाव० २५८८-८९] ।