SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ६७० सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गा पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्याम्, दिव्यां देव-निर्मिताम्, किं बहुना ? दुरधिसहां सोढुमशक्यामिति । इहैव जम्बूद्वीपे, नासङ्ख्येयतमे, पुमत्ताए त्ति पुंस्तया पच्चायाहिइ त्ति प्रत्याजनिष्यते, बहुपडिपुन्नाणं ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्य ष्टमानि तेषु रात्रिन्दिवेषु अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ कोमलौ पाणी च पादौ च यस्य स सुकुमारपाणिपादः, तम्, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणत: पञ्च इन्द्रियाणि करणानि यस्मिंस्तत्तथा, अहीनमङ्गोपाङ्गप्रमाणत: प्रतिपूर्णपञ्चेन्द्रियं यस्य सोऽहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः, तम्, तथा लक्षणं पुरुषलक्षणं शास्त्राभिहितम् अस्थिष्वर्थाः सुखं मांसे [ ] इत्यादि, मानोन्मानादिकं वा, व्यञ्जनं मष-तिलकादि, गुणा: सौभाग्यादयः, [अथवा लक्षण-व्यञ्जनयोर्ये गुणा]स्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओ त्ति तु प्राकृतत्वाद्वर्णागमत:, लक्षणव्यञ्जनगुणोपपेतः, तम् । माणुम्माणपमाणे त्ति, जलदोण १ मद्धभारं २ समुहाइं समुस्सिओ व जो नव उ ३ । माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥ [ ] ति । ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठ जातानि सर्वाण्यङ्गानि शिर:प्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम्, तथा शशिवत् सौम्याकारं कान्तं कमनीयं प्रियं प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनः, तम्, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः । जं रयणिं च त्ति यस्यां च रजन्यां तं रयणिं च त्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणम् । से दारए पयाहिइ त्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, सभिंतरबाहिरए त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः, अग्रं परिमाणम्, ततो भार एवाग्रं भाराग्रम्, तेन भाराग्रेण भाराग्रशो भारपरिमाणत:, एवं कुम्भाग्रशः, नवरं कुम्भ आढकषष्ट्यादिप्रमाणः, पद्मवर्षश्च
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy