________________
नवममध्ययनं नवस्थानकम् ।
नवरं पापस्य अशुभप्रकृतिरूपस्याऽऽयतनानि बन्धहेतव इति । [सू० ६७८ ] नवविधे पावसुयपसंगे पन्नत्ते, तंजहाउप्पा निमित्ते मंते अतिक्खिते तिगिच्छिते ।
कला आवरणे अन्नाणे मिच्छापावतणे ति त ।। १३१ ॥ [टी०] पापहेत्वधिकारात् पापश्रुतसूत्रं कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं शास्त्रं पापश्रुतम्, तस्य प्रसङ्गः तथाऽऽसेवारूपः विस्तरो वा सूत्र - वृत्ति - वार्त्तिकरूपः पापश्रुतप्रसङ्गः । उप्पाए सिलोगो, तत्रोत्पातः प्रकृतिविकाररूपः सहजरुधिरवृष्ट्यादिः, तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि १, तथा निमित्तम् अतीतादिपरिज्ञानोपायशास्त्रं कूरपर्वतादि २, मन्त्रो मन्त्रशास्त्रं जीवोद्धरणगारुडादि ३, आइक्खिए त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोंब्यो बधिरा इति लोकप्रतीताः ४, चैकित्सिकम् आयुर्वेद: ५, कला लेखाद्या: गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिः, तच्छास्त्राण्यपि तथा ६, आव्रियते आकाशमनेनेत्यावरणं भवन-प्रासादनगरादि, तल्लक्षणशास्त्रमपि तथा, वास्तुविद्येत्यर्थः ७, अज्ञानं लौकिकश्रुतं भारतकाव्य-नाटकादि ८, मिथ्याप्रवचनं शाक्यादितीर्थिकशासनमिति ९, एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये । [सू० ६७९] नव णेउणिता वत्थू पन्नत्ता, तंजासंखाणे निमित्ते कातिते, पोराणे पारिहत्थिते । परपंडितते वाति, भूतिकम्मे तिगिच्छिते ॥१३२॥
६५३
[टी०] उत्पातादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह- नव निउणेत्यादि, निपुणं सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिका:, निपुणा एव वा नैपुणिका:, वत्थु त्ति आचार्यादिपुरुषवस्तूनि, पुरुषा इत्यर्थः, संखाणे सिलोगो, सङ्ख्यानं गणितं तद्योगात् पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं चूडामणिप्रभृति, कायिकं शारीरिकम् इडा - पिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणो वृद्धः, स च चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, पारिहत्थिए त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनता