SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ६५० सम्बन्धः स च दर्शयिष्यते, तथा बीजानां तन्निबन्धनभूतानाम्, तथा मानं सेतिकादि, तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं तुला-कर्षादि, तद्विषयं यत्तदप्युन्मानं खण्ड-गुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहार: कार्यः, ततस्तस्य च, किमित्याह- यत् प्रमाणम्, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत् पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य व्रीह्यादे/जानां च तद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावः, भणिता उक्ता जिनादिभिरिति २ । सव्वा गाहा कण्ठ्या ३ । रयण गाहा, अक्षरघटनैवम्, रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि सर्वरत्ने सर्वरत्ननामनि निधौ द्रष्टव्यानीति ४ । वत्थाणं गाहा, वस्त्राणां वाससां योत्पत्ति: सामान्यतो या च विशेषतो निष्पत्ति: सिद्धिः सर्वभक्तीनां सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः प्रकारा येषां तानि तथा तेषाम्, किंभूतानां वस्त्राणामित्याह– रङ्गाणां रङ्गवतां रक्तानामित्यर्थः, धौतानां शुद्धस्वरूपाणाम्, सर्वैवैषा महापद्मे महापद्मनिधिविषया ५ । ___काले गाहा, काले कालनामनि निधौ कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह– भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणम्, चशब्दाद् वर्तमानवस्तुविषयं वर्तमानम्, तीसु वासेसु त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषि-वाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञान-शिल्प-कर्माणि प्रजाया: लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति ६। लोह गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्ति: सम्बन्धनीया, केवलं मणय: चन्द्रकान्तादयः, मुक्ता मुक्ताफलानि, शिला: स्फटिकादिका:,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy