SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४२३ ति चतुर्विंशतिदण्डकसूचा । सरीर त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरम्, ओरालिय त्ति उदारं प्रधानम्, उदारमेवौदारिकम्, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियं ति, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहस्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्तं च जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु ।। मच्छजुयले सहस्सं उरगेसु य गब्भजाएसु ॥ [बृहत्सं० ३०७] इति वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव औदारिकं । वेउब्विय त्ति विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् । आहारए त्ति तथाविधकार्योत्पत्तौ चतुर्दशपूर्वविदा योगबलेनाऽऽह्रियत इत्याहारकम्, उक्त चकजम्मि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थं आहरिजइ भणंति आहारगं तं तु ॥ [ ] कार्याणि चामूनिपाणिदयरिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिणपायमूलम्मि ॥ [ कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवदिति । तेयए त्ति तेजसो भावस्तैजसम्, उष्मादिलिङ्गसिद्धम्, उक्तं च सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ [ ] ति कम्मए त्ति कर्मणो विकार: कार्मणम्, सकलशरीरकारणमिति, उक्तं चकम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ [ ] ति । औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याच्चेति । तथा सर्वाण्यपि बादरबोन्दिधराणि पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः । दोगंध त्ति सुरभिदुरभिभेदात्, अट्ठफास त्ति कठिन-मृदु-शीतोष्ण-गुरु-लघु-स्निग्ध-रूक्षभेदादिति,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy