SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अष्टममध्ययन अष्टस्थानकम् । ६०७ द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह- अट्ट समिईत्यादि. सम्यगिति: प्रवृत्ति: समितिः, ईर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमिति:, एवं भाषायां निरवद्यभाषणत:, एषणायामुद्गमादिदोषवर्जनतः, आदाने ग्रहणे भाण्डमात्राया उपकरणमात्रायाः, भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य, निक्षेपणायां च समिति: सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चार-प्रश्रवण-खेल-सिवान-जल्लानां परिष्ठापनिकायां समिति: स्थण्डिलशुद्ध्यादिक्रमेण, खेलो निष्ठीवनम्, सिंघानो नासिकाश्लेष्मेति, मनस: कुशलतायां समितिः, वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति । [सू० ६०४] अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणं पडिच्छित्तते, तंजहा-आयारवं, आहारवं, ववहारवं, ओवीलए, पकुव्वते, अपरिस्साती, निजवते, अवातदंसी १।। ___ अट्टहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तए, तंजहाजातिसंपन्ने, कुलसंपन्ने, विणयसंपन्ने, णाणसंपन्ने, सणसंपन्ने, चरित्तसंपन्ने, खंते, दंते २॥ _[सू० ६०५] अट्ठविहे पायच्छिते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे, विवेगारिहे, विउस्सगारिहे, तवारिहे, छेदारिहे, मूलारिहे ३॥ टी०] समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधो: प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह- अट्ठहीत्यादि सूत्रत्रयं सुगमम्, नवरम् आयारवं ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञाना-ऽऽसेवनाभ्याम्, आहारवं ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च आयरवमायारं पंचविहं मुणइ जो य आयरइ ।। आहारवमवहारे आलोएंतस्स तं सव्वं ॥ [ ] ति । ववहारवं ति आगम-श्रुता-ऽऽज्ञा-धारणा-जीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, ओवीलए त्ति अपव्रीडयति विलज्जीकरोति यो लज्जया
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy