________________
सप्तममध्ययनं सप्तस्थानकम् ।
अत्रोच्यते— यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च
न हि दीहकालियस्स वि णासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥
सव्वं च परसतया भुज्जइ कम्ममणुभागओ भइयं ।
तेणावस्साणुभवे के कयनासादओ तस्स ? ॥ [ विशेषाव० २०४८-४९] इत्यादि । [सू० ५६२] सत्तविधा सव्वजीवा पन्नत्ता, तंजहा पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सतिकाइया, तसकाइया, अकाइया ।
अहवा सत्तविहा सव्वजीवा पन्नत्ता, तंजहा - कण्हलेसा जाव सुक्कलेसा, अलेसा ।
[टी०] अयं चायुर्भेद: कथञ्चित् सर्वजीवानामस्तीति तानाह - [ सत्तेत्यादि ] सूत्रद्वयं कण्ठ्यम्, नवरं सर्वे च ते जीवाश्चेति सर्वजीवाः, संसारि - मुक्ता इत्यर्थः, तथा अकाइय त्ति सिद्धाः षड्विधकायाव्यपदेश्यत्वादिति । अलेश्याः सिद्धाः अयोगिनो वेति ।
[सू० ५६३ ] बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूई उड्डउच्चत्तेणं सत्त य वाससताइं परमाउं पालयित्ता कालमासे कालं किच्चा अधे सत्तमाते पुढवीते अप्पतिट्ठाणे णरए णेरतितत्ताते ववन्ने ।
[टी०] अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ता:, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह - [ बंभदत्तेत्यादि ] सुगमम्।
[सू० ५६४ ] मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारिय पव्वइए, तंजहा-मल्ली विदेहरायवरकन्नगा, पडिबुद्धी इक्खागराया, चंदच्छाये अंगराया, रुप्पी कुणालाधिपती, संखे कासीराया, अदीणसत्तू कुरुराया, जितसत्तू पंचालराया ।
-
५७५