SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ४१८ वाऽऽपद्यन्ते प्राप्नुवन्तीति, आह च सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ [ ] इति । अपरिन्नाय त्ति ज्ञपरिज्ञया स्वरूपतोऽपरिज्ञातानि अनवगतानि प्रत्याख्यानपरिज्ञया वाऽप्रत्याख्यातानि अहिताय अपायाय, अशुभाय अपुण्यबन्धाय असुखाय वा, अक्षमाय अनुचितत्वाय असमर्थत्वाय वा, अनिःश्रेयसाय अकल्याणायाऽमोक्षाय वा, यदुपकारि सत् कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १०, द्वितीयं विपर्ययसूत्रम् ११, उत्तरसूत्रद्वयेन तु एतदेवाऽहित-हितादि व्यञ्जितमिति, दुर्गतिगमनाय नारकादिभवप्राप्तये सुगतिगमनाय सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गति-सुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति। [सू० ३९२] पंच पडिमातो पन्नत्ताओ, तंजहा-भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा, भदुत्तरपडिमा ।। [टी०] इह संवर-तपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह-पंचेत्यादि व्यक्तम्, नवरं भद्रा १ महाभद्रा २ सर्वतोभद्रा ३ द्वि १ चतु २ दशभि ३ दिनैः क्रमेण भवन्तीत्युक्तं प्राग्, सुभद्रा त्वदृष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं क्षुद्रिका महती च, तत्राद्या चतुर्थादिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा एगाई पंचंते ठविउं मज्झं तु आइमणुपंतिं । उचियकमेण य सेसे जाण लहुं सव्वओभदं ॥ [ ] ति पारणकदिनानि तु पञ्चविंशतिरिति, स्थापना | १ २ ३ ४ ५ । ३ ४ ५ १ २ । । ५१ २ ३ ४ । २ ३ ४ ५१ । ४ ५ १२३ । महती तु चतुर्थादिना षोडशावसानेन षण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy