________________
सप्तममध्ययनं सप्तस्थानकम् ।
५६७
आरभमाणा:, इह समुदितत्रयापेक्षं बहवचनमन्यथा एक एव आकारो द्वयमन्यद वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यभागे, तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदि-मध्या-ऽवसानेषु गीतध्वनि: मृदु-तार-मन्द्रस्वभाव: क्रमेण भवतीति भावः ।
किञ्चान्यत्- छ होसेत्यादि, षट् दोषा वर्जनीया:, तानाह- भीयं गाहा, भीतं त्रस्तमानसम् १, द्रुतं त्वरितम् २, रहस्सं ति हस्वस्वरं लघुशब्दमित्यर्थः, ३, उत्तालम् उत् प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, काकस्वरं श्लक्ष्णाश्रव्यस्वरम्, अनुनासं च सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह- गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासी:, किमिति ?, यत एते गेयस्य षट् दोषा इति ।
अष्टौ गुणानाह- पुन्नं त्ति गाहा, पूर्णं स्वरकलाभिः १, रक्तं गेयरागेणानुरक्तस्य २, अलङ्कृतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३, व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४, अविघुटुं विक्रोशनमिव यन्न विस्वरम् ५, मधुरं मधुरस्वरं कोकिलारुतवत् ६, समं ताल-वंशस्वरादिसमनुगतम् ७, सुकुमारं ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किञ्चान्यत्- उर गाहा, उर:-कण्ठ-शिर:सु प्रशस्तं विशुद्धम्, अयमर्थः- यारसि स्वरो विशालस्तत उरोविशुद्धम्, कण्ठे यदि स्वरो वर्त्तितोऽस्फुटितश्च ततः कण्ठविशुद्धम्, शिरसि प्राप्तो यदि नानुनासिकस्तत: शिरोविशुद्धम्, अथवा उर:-कण्ठ-शिर:सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये, गीयते उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याहमृदुकं मधुरस्वरं रिभितं यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव, घोलनाबहुलमित्यर्थः, पदबद्धं गेयपदैनिबद्धमिति, पदत्रयस्य कर्मधारयः, समतालपडुक्खेवं ति समशब्दः प्रत्येकं सम्बध्यते, तेन समास्ताला हस्तताला उपचारात् तद्रवो यस्मिंस्तत् समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा मुरज-कंशिकाद्यातोद्यानां यो ध्वनिस्तल्लक्षण: