SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ५४६ संशयविषयीकरोमीत्यतः संशयापनोदार्थं गणादपक्रामामीति तृतीयम् ३, एवमेककान् विचिकित्सामि, एककान् नो विचिकित्सामीति चतुर्थम् ४, तथा जुहुणामित् जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रामामीति पञ्चमम् ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त ! धर्माचार्य ! एकाकिनो गच्छनिर्गतत्वाज्जिनकल्पकादितया यो विहारो विचरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य अङ्गीकृत्य विहर्त्तुमिति सप्तममिति ७ । उक्तं च नाट्ठ दंसणट्ठा चरणट्ठा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं ॥ [ निशीथ० ५४५८ ] इति । तत्र ज्ञानार्थम् सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं भीओ य नियत्तए कोइ ॥ [ निशीथ० ५४५९ ] इति । दर्शनप्रभावकशास्त्रार्थं दर्शनार्थम् । चारित्रार्थं यथा चरितट्ठ देसि दुविहा, देशे द्विविधा दोषा इत्यर्थः, एसणदोसा य इत्थिदोसा य । ततो गणापक्रमणं भवति, गच्छम्मि य सीयंते आयसमुत्थेहिं दोसेहिं ॥ [ निशीथ० ५५३९] इति । सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थं नामाऽऽचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुं पृष्ट्वैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालात् परतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयम्, यतः आयरियाईण भया च्छित्तभया न सेवड़ अकिच्चं । वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥ [ निशीथ० ५४५५] सूत्रार्थोपयोगेनेत्यर्थः, तथाएगो इत्थीगम्मो तेणादिभया य अल्लिययगारे गृहस्थान् । कोहादी व उदिन्ने परिनिव्वावंति से अन्ने | [निशीथ० ५४५६ ] त्ति । [सू० ५४२] सत्तविधे विभंगणाणे पन्नत्ते, तंजहा - एगदिसिं लोगाभिगमे,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy