SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ५१८ छव्विधा अप्पमायपडिलेहा पन्नत्ता, तंजहाअणच्चावितं, अवलितं, अणाणुबंधिं, अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणविसोहणी ॥४६॥ [टी०] अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह- छव्विहेत्यादि, षड्विधा षड्भेदा प्रमादेन उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथाआरभडा गाहा, आरभटा वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं सा आरभटा, सा च वर्जनीया दोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मर्दा यत्र वस्त्रस्य मध्यप्रदेशे संवलिता: कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्म ति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनारूपा, तइय त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् अट्ठाणट्ठवणा य त्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधे: स्थापनं निक्षेपोऽस्थानस्थापना, प्रस्फोटना प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते ५, वेइय त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्ध्ववेदिका, यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते १, अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनो: पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एकं जानु बाह्वोरन्तरे कृत्वेति ५, षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः । उक्तविपरीतां प्रत्युपेक्षणामेवाह- छव्विहेत्यादि, षड्विधा अप्रमादेन प्रमादविपर्ययेण प्रत्युपेक्षणा, अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा- अणच्चा० गाहा, वस्त्रमात्मा वा न नर्तितं न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणम्, वस्त्रं नर्त्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गा: १, तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २, तथा न विद्यतेऽनुबन्ध: सातत्यं प्रस्फोटकादीनां यत्र तदननुबन्धि, इन् समासान्तोऽत्र दृश्य:, नानुबन्धि अननुबन्धीति वा ३, तथा न विद्यते मोसली उक्तलक्षणा तत्र तदमोसलि ४, छप्पुरिमा नव खोड त्ति तत्र वस्त्रे प्रसारिते सति
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy