SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७६ असङ्ख्योत्सर्पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६। दोण्हं ति द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति, न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७ । दोण्हेत्यादि, देव-नारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनाऽनुत्पत्तेरिति १८ । दुविहे इत्यादि, अद्धा कालः, तत्प्रधानमायुः कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थः, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमानं कालमुत्कर्षतोऽनुवर्तत इति, तथा भवप्रधानमायुर्भवायुः, यद् भवात्यये अपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९ । दोण्हमित्यादि सूत्रद्वयं भावितार्थमेव २१ । दुविहे कम्मे त्ति, प्रदेशा एव पुद्गला एव यस्य वेद्यन्ते न यथाबद्धो रसस्तत् प्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्माऽनुभावकर्मेति २२ । दो इत्यादि, यथाबद्धमायुर्यथायुः पालयन्ति अनुभवन्ति, नोपक्रम्यते तदिति, देवा नेरइया वि य असंखवासाउया य तिरि-मणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥ [श्रावकप्र० ७४] इति वचने सत्यपि देव-नारकयोरेवेह भणनं द्विस्थानकानुरोधादिति २३ । दोण्हमित्यादि, संवर्तनमपवर्त्तनं संवर्तः, स एव संवर्तकः, उपक्रम इत्यर्थः, आयुषः संवर्तकः आयुःसंवर्तक इति २४ । [सू० ८०] जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पनत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति आयामविक्खंभ-संठाण-परिणाहेणं, तंजहा-भरहे चेव एरवते चेव । एवमेतेणमभिलावेणं हेमवते चेव हेरन्नवते चेव, हरिवासे चेव रम्मयवासे चेव ३॥ [टी०] पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः जंबूदीवेत्यादिना क्षेत्रप्रकरणमाह, सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुम् उत्तरदक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा, तद्यथा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy