SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह– णेरइयाणमित्यादि । एवमिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयः, नवरं नारकस्य स्वशरीररक्षार्थं परस्योपहननमर्थदण्डः, प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनामनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः, अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति। [सू० ५९] दुविहे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे चेव मिच्छादसणे चेव १। सम्मइंसणे दुविहे पन्नत्ते, तंजहा-णिसग्गसम्मइंसणे चेव अभिगमसम्मइंसणे चेव २। णिसग्गसम्मइंसणे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति चेव ३। अभिगमसम्मइंसणे दविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति चेव ४। मिच्छादसणे दुविहे पन्नत्ते, तंजहा-अभिगहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव ५। अभिगहियमिच्छादसणे दुविहे पन्नत्ते, तंजहा-सपजवसिते चेव अपज्जवसिते चेव ६। एवमणभिगहितमिच्छादसणे वि ७। [टी०] सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति, तत्र दुविहे दंसणे इत्यादिसूत्राणि सप्त सुगमान्येव, नवरं दृष्टिदर्शनं तत्त्वेषु रुचिः, तच्च सम्यग् अविपरीतं जिनोक्तानुसारि, तथा मिथ्या विपरीतमिति। सम्मइंसणे इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरम्, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवी-भरतवदिति । निसग्गेत्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं क्षायोपशमिकं च, अप्रतिपाति क्षायिकम्, तत्रैषां क्रमेण लक्षणम्- इहौपशमिकी श्रेणिमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्व-मिश्राभिधानशुद्धा-ऽशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथम् ? इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यच्च मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थः, तावन्तं काल
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy