SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आया णो केवलं बोधिं बुज्झेजा, तंजहा-आरंभे चेव परिग्गहे चेव २॥ दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, तंजहा-आरंभे चेव परिग्गहे चेव ३। एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेज्जा ५, नो केवलेणं संवरेणं संवरेजा ६, नो केवलमाभिणिबोधियणाणं उप्पाडेजा ७, एवं सुयनाणं ८, ओहिनाणं ९, मणपजवनाणं १०, केवलनाणं ११। [टी०] विद्या-चरणे च कथमात्मा न लभत इत्याह- दो ठाणाइमित्यादिसूत्राण्येकादश, द्वे स्थाने द्वे वस्तुनी अपरियाणित्त त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भ-परिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, आत्मा नो नैव केवलिप्रज्ञप्तं जिनोक्तं धम्मं श्रुतधर्मं लभेत श्रवणतया श्रवणभावेन, श्रोतुमित्यर्थः, तद्यथा-आरम्भाः कृष्यादिद्वारेण पृथिव्याधुपमर्दास्तान्, परिग्रहा धर्मसाधनव्यतिरेकेण धन-धान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्ध्या नेयाविति। केवलां शुद्धां बोधिं दर्शनं सम्यक्त्वमित्यर्थो बुध्येत अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामात् बोध्यं जीवादीति गम्यते बुध्येत श्रद्दधीतेति। मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन भूत्वा संपद्य अगाराद् गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् केवलां परिपूर्णां शुद्धां वाऽनगारितां प्रव्रज्यां प्रव्रजेत् यायादिति । एवमिति यथा प्राक् तथोत्तरवाक्येष्वपि दो ठाणा इत्यादि वाक्यं पठनीयमित्यर्थः, ब्रह्मचर्येण अब्रह्मविरमणेन वासो रात्रौ स्वापः तत्रैव वा वासो निवासो ब्रह्मचर्यवासस्तमावसेत् कुर्यादिति, संयमेन पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, संवरेण आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते, केवलं परिपूर्णं सर्वस्वविषयग्राहकम् आभिणिबोहियनाणं ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयस्वभावत्वाद् बोधो वेदनमभिनिबोधः, स एवाभिनिबोधिकम्, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम् इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयम् उप्पाडेज्ज त्ति उत्पादयेदिति, तथा एवमित्यनेनोत्तरपदेषु नो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy