________________
३२
1
राश्यन्तरापोहमाह । नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति । च्चेय इति पूर्व्वाध्ययन एवकारार्थः, चि च्चेय एवार्थ [ ] इति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र ।
अथ तसेत्यादि । तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः द्वीन्द्रियादयः, स्थावरनामकर्मोदयाच्च तिष्ठन्तीत्येवंशीलाः स्थावराः पृथिव्यादयः । सह योन्या उत्पत्तिस्थानेन सयोनिकाः संसारिणः, तद्विपर्यासभूताः अयोनिकाः सिद्धाः । सहाऽऽयुषा वर्तन्त इति सायुषः, तदन्येऽनायुषः सिद्धाः । एवं सेन्द्रियाः संसारिणः, अनिन्द्रियाः सिद्धादयः । सवेदकाः स्त्रीवेदाद्युदयवन्तः, अवेदकाः सिद्धादयः । सह रूपेण मूर्त्या वर्त्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः संस्थान - वर्णादिमन्तः, सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो मुक्ताः । सपुद्गलाः कर्म्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः सिद्धाः । संसारं भवं समापन्नका आश्रिताः संसारसमापन्नकाः संसारिणः, तदितरे सिद्धाः । शाश्वताः सिद्धाः जन्म-मरणादिरहितत्वाद्, अशाश्वताः संसारिणस्तद्युक्तत्वादिति ।
एवं जीवतत्त्वस्य द्विपदावतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह - आगासेत्यादि । आकाशं व्योम, नोआकाशं तदन्यद् धर्मास्तिकायादि । धर्मः धर्मास्तिकायो गत्युपष्टम्भगुणः, तदन्योऽधर्मः अधर्मास्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति ।
[सू० ५०] दो किरियाओ पन्नत्ताओ, तंजहा - जीवकिरिया चेव अजीवकिरिया चेव। जीवकिरिया दुविहा पन्नत्ता, तं जहा सम्मत्तकिरिया चेव मिच्छत्तकिरिया चेव । अजीवकिरिया दुविहा पन्नत्ता, तंजहा - इरियावहिया चेव संपराइगा चेव ।
दो किरियाओ पन्नत्ताओ तंजहा - काइया चेव आधिकरणिया चेव । काइया किरिया दुविहा पन्नत्ता, तंजहा - अणुवरयकायकिरिया चेव दुप्पउत्तकायकिरिया चेव । आधिकरणिया किरिया दुविहा पन्नत्ता, तंजहा