SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनेकसिद्धानामेकसमये व्यादीनाम् अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणागाथा बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छन्नउई दुरहियम?त्तर सयं च ॥ [बृहत्सं० ३४७] ___ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तम्, अधुना परम्परसिद्धानामुच्यते, तत्र अपढमसमयसिद्धाणमित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः, तेषाम् । एवं जाव त्ति करणाद् ‘दुसमयसिद्धाणं ति-चउ-पंच-छ-सत्त-ऽट्ठ-नव-दससंखेज्जा-ऽसंखेज्जसमयसिद्धाण'मिति दृश्यम्, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् पढमसमयसिद्धाणं ति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव व्याख्यातव्याः, द्व्यादिसमयसिद्धास्तु यथाश्रुता एवेति । [सू० ४३] [१] एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा १। एगा एगपदेसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेजपदेसोगाढाणं पोग्गलाणं वग्गणा २। एगा एगसमयट्ठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयट्ठितियाणं पोग्गलाणं वग्गणा ३। एगा एगगुणकालगाणं पोग्गलाणं वग्गणा जाव एगा असंखेजगुणकालगाणं पोग्गलाणं वग्गणा, एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा । एवं वण्ण-गंध-रस-फासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा ४। [२] एगा जहन्नपतेसियाणं खंधाणं वग्गणा, एगा उक्कस्सपतेसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कस्सपतेसियाणं खंधाणं वग्गणा १, एवं जहन्नोगाहणगाणं उक्कस्सोगाहणगाणं अजहन्नुक्कस्सोगाहणगाणं २, जहन्नट्ठितियाणं उक्कस्सट्ठितियाणं १. 'एगा अपढमसमयसिद्धाणं वग्गणा एवं दुसमयसिद्धाणं ति-चउ-पंच-छ-सत्त-ऽट्ठ-नव-दस-संखेजाऽसंखेजसमयसिद्धाणं अणंतसमयसिद्धाणं वग्गणा' इति त्रयोदश सूत्राणि ज्ञेयानि ॥
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy