SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । ३९१ विजातीयतृणाद्यपनयनेन शोधिता निदाता, परिनिंदिय त्ति द्विस्त्रिर्वा तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामायिकारोपणेन, परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानत:, निंदिया सकृदतिचारालोचनेन, परिणिंदिया पुन: पुनरिति । धन्नपुंजियसमाण त्ति खले लून-पून-विशुद्ध-पुजीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण गोखुरक्षुण्णतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्र्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत् सङ्कर्षितं क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना, या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपात: प्राकृतत्वादिति॥ __[सू० ३५६] चत्तारि सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना १ ।। चउहिं ठाणेहिं आहारसन्ना समुप्पजति, तंजहा-ओमकोट्टताते, छुहावेयणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं २ । चउहि ठाणेहिं भयसन्ना समुप्पजति, तंजहा-हीणसत्तताते, भयवेयणिजस्स कम्मस्स उदएणं, मतीते, तदह्रोवओगेणं ३ । चउहिं ठाणेहिं मेहुणसन्ना समुप्पजति, तंजहा-चितमंससोणिययाए, मोहणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ४ । चउहिं ठाणेहिं परिग्गहसन्ना समुप्पजति, तंजहा-अविमुत्तयाए, लोभवेयणिजस्स कम्मस्स उदएणं, मतीते, तदट्ठोवओगेणं ५ । [टी०] इयं च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं चत्तारीत्यादि सुगमम्, केवलं संज्ञानं संज्ञा चैतन्यम्, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा आहारा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy