SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५८ जिभिंदियत्थे, फासिंदियत्थे । चउहिं ठाणेहिं जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तंजहा-गतिअभावेणं, णिरुवग्गहताते, लुक्खताते, लोगाणुभावेणं। [टी०] चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योन्यं प्रदेशत: समतामाह- चत्तारीत्यादि कण्ठ्यम्, नवरं प्रदेशाग्रेण प्रदेशपरिमाणेनेति तुल्याः समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात् । लोयागासे त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभि: सहाऽतुल्यताप्रसक्तेर्लोकग्रहणम् । एगजीवे त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति । पूर्वं पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह - चउण्हमित्यादि कण्ठ्यम्, किन्तु नो पस्सं ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् सुपस्सं ति पाठः, तत्र न सुखदृश्यं न चक्षुःप्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमेवेत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं वा अदृश्यमिति चतुर्णामित्युक्तम्, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाहचत्तारि इंदियेत्यादि स्पष्टम्, किन्तु इन्द्रियैरर्यन्ते अधिगम्यन्त इतीन्द्रियार्थाः शब्दादयः, पुट्ठ त्ति स्पृष्टा: इन्द्रियसम्बद्धा वेएंति त्ति वेद्यन्ते आत्मना ज्ञायन्ते, नयन-मनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च- पुढे सुणेइ सद्दे त्ति वचनात् । अनन्तरं जीव-पुद्गलयोरिन्द्रियद्वारेण ग्राहक-ग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म चिन्तयन्नाह- चउहीत्यादि व्यक्तम्, परमन्येषां गतिरेव नास्तीति जीवा य पुग्गला येत्युक्तम्, नो संचाएंति न शक्नुवन्ति, नालम्, बहिय त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायै गमनाय, गन्तुमित्यर्थः । गत्यभावेन लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया धर्मास्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपङ्गुवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालम्, कर्मपुद्गलानां
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy