SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२८ एगे आसासे पण्णत्ते १, जत्थ वि य णं सामातितं देसावगासितमणुपालेति तत्थ वि य से एगे आसासे पन्नत्ते २, जत्थ वि य णं चाउद्दसट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेति तत्थ वि य से एगे आसासे पण्णत्ते ३, जत्थ वि य णं अपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थ वि य से एगे आसासे पन्नत्ते ४ । [सू० ३१५] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उदितोदिते णाममेगे, उदितत्थमिते णाममेगे, अत्थमितोदिते णाममेगे, अत्थमियत्थमिते णाममेगे। भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिते, हरितेसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिए अत्थमितत्थमिते । _[टी०] अनन्तरं भाव उक्तोऽधुना तद्वत: पुरुषान् सदृष्टान्तान् चत्तारि पक्खीत्यादिना अत्थमियत्थमियेत्येतदन्तेन ग्रन्थेनाह, व्यक्तश्चायम्, नवरं रुतं रूपं च सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं मनोज्ञशब्दस्तेन सम्पन्नः एक: पक्षी, न च रूपेण मनोज्ञेनैव कोकिलवत् । रूपसम्पन्नो न रुतसम्पन्नः, प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, अनुभयस्वभाव: काकवदिति । पुरुषोऽत्र यथायोगं मनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्व-सद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमाङ्गता-तपस्तनुतनुत्व-मलमलिनदेहताऽल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्य इति । पत्तियं ति प्रीतिरेव प्रीतिकं स्वार्थे कः, तत् करोमि, प्रत्ययं वा करोमीति परिणत: प्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोति उक्तवैपरीत्यादिति, अपरोऽप्रीतौ परिणत: प्रीतिमेव करोति, सञ्जातपूर्वभावनिवृत्तित्वात्, परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः । आत्मन एकः कश्चित् प्रीतिकम् आनन्दं भोजनाच्छादनादिभि: करोति उत्पादयति
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy