SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १६ रहस्से । एगे वट्टे । एगे तंसे । एगे चउरंसे । एगे पिहुले। एगे परिमंडले। एगे किण्हे । एगे णीले । एगे लोहिते । एगे हालिद्दे । एगे सुक्किले। एगे सुब्भिगंधे । एगे दुब्भिगंधे । एगे तित्ते । एगे कडुए । एगे कसाए। एगे अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे । [टी०] तदेतावता ग्रन्थेनैते प्रायो जीवधर्मा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां तल्लक्षणाजीवधा एगे सद्दे इत्यादिना जाव लुक्खे इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुद्गलादीनां तु सत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः, केषाञ्चित् सांव्यवहारिकप्रत्यक्षत इति । तत्र शब्दादिसूत्राणि सुगमानि, तानीमानि शब्दयते अभिधीयते अनेनेति शब्दो ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते अवलोक्यत इति रूपम् आकारश्चक्षुर्विषयः, घ्रायते सिद्ध्यते इति गन्धो घ्राणविषयः, रस्यते आस्वाद्यते इति रसः रसनेन्द्रियविषयः, स्पृश्यते छुप्यत इति स्पर्शः स्पर्शनकरणविषयः, शब्दादीनां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयम् । शब्दभेदावाह- सुब्भिसद्दे त्ति, शुभशब्दो मनोज्ञ इत्यर्थः, एवं दुब्भि त्ति अशुभः, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्, एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं मनोज्ञरूपमितरत्तु दूरूपमिति । दीर्घम् आयततरम्, ह्रस्वं तदितरद् । वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तं संस्थानं मोदकवत्, तच्च प्रतर-घनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं शेषाण्यपि । तंसे त्ति तिम्रोऽम्रयः कोटयो यस्मिंस्तत् त्र्यसं त्रिकोणम्, चतुरंसे त्ति चतस्रोऽस्रयो यस्य तत्तथा, चतुष्कोणमित्यर्थः, तथा पिहुले त्ति पृथुलं विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घ-ह्रस्वपृथुलशब्दैविभज्योक्तम्, आयतधर्मत्वादेषाम्, तच्चायतं प्रतर-घन-श्रेणिभेदात् त्रिधा, पुनरेकैकं समविषमप्रदेशमिति षोढा। परिमंडले त्ति परिमण्डलसंस्थानं वलयाकारं प्रतर-घनभेदाद् द्विविधमिति । रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः पीतः, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः । गन्धो द्वेधासुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy