SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९८ [= ४], १२ । ___ एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], १३ । ___ चत्तारि वायमंडलिया पन्नत्ता, तंजहा-वामा णाममेगा वामावत्ता ह्व (= ४], १४ । ___ एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], १५ । चत्तारि वणसंडा पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह [= ४], १६। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वामे णाममेगे वामावत्ते ह्व [= ४], १७ । [टी०] गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गीसूत्राणि सुगमानि, केवलम् अलमस्तु निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु प्रवर्त्तमानस्यैको निषेधकः, अथवा अलमंथु त्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति १। एको मार्ग ऋजुरादावन्तेऽपि ऋजुः, अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति २। पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु उजू नामं एगे उज्जूमणे त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येय: ३। क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुन: क्षेमोऽन्ते तथैव, प्रसिद्धि-तत्त्वाभ्यां वा ४। एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति ५। क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्ग: ६। पुरुषस्तु प्रथमो भावद्रव्यलिङ्गयुक्तः साधुः, द्वितीय: कारणिको द्रव्यलिङ्गवर्जित: साधुरेव, तृतीयो निह्नवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति ७, संबुक्के त्ति शम्बूका: शङ्खाः, वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति ८, पुरुषस्तु वाम: प्रतिकूलस्वभावतया वाम एवावर्त्तते प्रवर्तत इति वामावर्तो विपरीतप्रवृत्तेरेकः, अन्यो वाम एव स्वरूपेण,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy