SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९६ नोतथ:, तथा स्वस्तीत्याह चरति वा सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी माङ्गलिकाभिधायी मागधादिरन्य:, एतेषामेवाराध्यतया प्रधानः प्रभुरन्य इति । आयंतकरे त्ति आत्मनोऽन्तम् अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो धर्मदेशनाऽनासेवक: प्रत्येकबुद्धादि: १, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽचरमशरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा ३, चतुर्थो दुःषमाचार्यादि:४, अथवाऽऽत्मनोऽन्तं मरणं करोतीति आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधकः, द्वितीय: परवधकः, तृतीय उभयहन्ता, चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनः, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठयतिः, [अथवा आत्मतन्त्रम् आत्मायत्तं धन-गच्छादि करोतीत्यात्मतन्त्रकरः, एवमितरोऽपि, भङ्गयोजना स्वयमूह्येति । तथा आत्मानं तमयति खेदयतीत्यात्मतम: आचार्यादिः, परं शिष्यादिकं तमयतीति परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तम: अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरोऽपि, तथा आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदम: आचार्योऽश्वदमकादिर्वा, एवमितरोऽपि, नवरं पर: शिष्योऽश्वादिर्वा । [सू० २८८] चउव्विधा गरहा पन्नत्ता, तंजहा-उवसंपजामित्तगा गरहा, वितिगिच्छामित्तेगा गरहा, जं किंचि मिच्छामीत्तेगा गरहा, एवं पि पन्नत्तेगा गरहा । [टी०] दमश्च गर्दागर्हात: स्यादिति गर्हासूत्रम्, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्हा, तत्र उपसंपद्ये आश्रयामि गुरुं स्वदोषनिवेदनार्थम् अभ्युपगच्छामि वोचितं प्रायश्चित्तम् इतीति एवंप्रकार: परिणाम एका गर्हेति, गर्हात्वं चास्योक्तपरिणामस्य गर्हाया: कारणत्वेन कारणे कार्योपचाराद् गर्हासमानफलत्वाच्च द्रष्टव्यमिति । तथा वितिगिच्छामि त्ति वीति विशेषेण विविधप्रकारैर्वा चिकित्सामि प्रतिकरोमि निराकरोमि गर्हणीयान् दोषान् इतीति एवंविकल्पात्मिका एकाऽन्या गऱ्या, तत एवेति, तथा जं किंचि मिच्छामीति यत् किञ्चनानुचितं तन्मिथ्या विपरीतं दुष्ठु मे मम
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy