SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । २८९ जनपदस्य, राज्ञो नृपस्येति । ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथाधिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्री: पतिलक्षेऽप्यनिन्दिताः ॥ [ ] इति । एवम् उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथाअहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युर्मुत्यौ विशन्त्यग्नौ या: प्रेमरहिता अपि ॥ [ ] इति । तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत् प्रशंसादि सा रूपकथा, यथाचन्द्रवक्त्रा सरोजाक्षी सद्गी पीनघनस्तनी । किं लाटी नो मता साऽस्य देवानामपि दुर्लभा? ॥ [ ] इति । तासामेव अन्यतमाया: कच्छाबन्धादिनेपथ्यस्य यत् प्रशंसादि सा नेपथ्यकथेति, यथा धिन्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ [ ] इति । स्त्रीकथायां चैते दोषा:आय-परमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती पसंगदोसा य गमणादी ॥ [निशीथभा० १२१] उन्निष्क्रमणादय इत्यर्थः । तथा शाक-घृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्कान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति निष्ठानकथेति, उक्तं च सागघयादावावो पक्कापक्को य होइ निव्वावो । आरंभ तित्तिराई णिट्ठाणं जा सयसहस्सं ॥ [निशीथभा० १२३] इति । इह चामी दोषा:आहारमंतरेण वि गेहीओ जायए स इंगालं । अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य ॥ [निशीथभा० १२४] इति ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy