________________
२८१
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । शरीरम्, द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढा, कालतोऽसङ्ख्येयसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना भावावगाहना भावप्राधान्यादिति । आश्रयणमानं वाऽवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहनाऽऽश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति।
[सू० २७७] चत्तारि पन्नत्तीओ अंगबाहिरियातो पन्नत्ताओ, तंजहाचंदपन्नत्ती, सूरपन्नत्ती, जंबूदीवपन्नत्ती, दीवसागरपन्नत्ती ।
॥ चउट्ठाणस्स पढमो उद्देसओ सम्मत्तो ॥ [टी०] अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते प्रकर्षण बोध्यन्ते अर्था यासु ता: प्रज्ञप्तयः, अङ्गानि आचारादीनि, तेभ्यो बाह्या: अङ्गबाह्या:, यथार्थाभिधानाश्चैता: कालिकश्रुतरूपाः, तत्र सूरप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्ती पञ्चम-षष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चतस्र उक्ताः ॥
॥ चतु:स्थानके प्रथमोद्देशकः समाप्तः ॥
___ [अथ द्वितीय उद्देशकः] [सू० २७८] चत्तारि पडिलीणा पन्नत्ता, तंजहा-कोधपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसंलीणे । चत्तारि अपडिसंलीणा पन्नत्ता, तंजहा-कोधअपडिसंलीणे जाव लोभअपडिसंलीणे ।
चत्तारि पडिसंलीणा पन्नत्ता, तंजहा-मणपडिसंलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे । चत्तारि अपडिसंलीणा पन्नत्ता, तंजहामणअपडिसंलीणे जाव इंदियअपडिसंलणे ४ ।
[टी०] व्याख्यातश्चतु:स्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्ध:-अनन्तरोद्देशके जीवादिद्रव्य-पर्यायाणां चतु:स्थानकमुक्तमिहापि