SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । २७३ [टी०] प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम्, तत्र प्रमीयते परिच्छिद्यते येन वर्षशत-पल्योपमादि तत् प्रमाणम्, तदेव काल: प्रमाणकाल:, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ [आव० नि० ७३०, विशेषाव०२०६९] त्ति, यथा यत्प्रकारं नारकादिभेदेनाऽऽयुः कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृत्ति: बन्धनं तस्याः सकाशाद्यः कालो नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृत्तिकाल:, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वसंसारिजीवानां वर्त्तनादिरूप इति। मरणस्य मृत्यो: काल: समयो मरणकाल:, अयमप्यद्धासमयविशेष एव मरणविशिष्टो मरणमेव वा कालो मरणपर्यायत्वादिति, उक्तं च कालो त्ति मयं मरणं जहेह मरणं गओ त्ति कालगओ । तम्हा स कालकालो जो जस्स मओ मरणकालो ॥ [विशेषाव० २०६६] त्ति । तथा अद्धैव काल: अद्धाकाल:, कालशब्दो हि वर्ण-प्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशेष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वर्ती समयादिरूपोऽवसेय: । [सू० २६५] चउव्विहे पोग्गलपरिणामे पन्नत्ते, तंजहा-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । [टी०] द्रव्यपर्यायभूतस्य कालस्य चतु:स्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानां पर्यायभूतस्य परिणामस्य तदाह- चउव्विहेत्यादि, परिणाम: अवस्थातोऽवस्थान्तरगमनम्, तत्र वर्णस्य कालादेः परिणाम: अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणाम:, एवमन्येऽपि । [सू० २६६] भरहेरवतेसु णं वासेसु पुरिम-पच्छिमवजा मज्झिमगा बावीसं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवातातो वेरमणं, एवं मुसावादाओ [वेरमणं, सव्वातो] अदिन्नादाणाओ [वेरमणं],
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy