________________
२६४
[टी०] अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्भवतीति प्रतिमासूत्रत्रयम्, तद् द्विस्थानकाधीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसतव्या, किन्तु स्मरणाय किञ्चिदुच्यते- समाधिः श्रुतं चारित्रं च, तद्विषया प्रतिमा प्रतिज्ञा अभिग्रहः समाधिप्रतिमा, द्रव्यसमाधिर्वा प्रसिद्धः, तद्विषया प्रतिमा अभिग्रहः समाधिप्रतिमा, एवमन्या अपि, नवरमुपधानं तपः, विवेकः अशुद्धाऽतिरिक्तभक्त-पान-वस्त्र-शरीर-तन्मलादित्यागः, विउसग्गे त्ति कायोत्सर्गः । तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाण: कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरियं समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा प्रश्रवणप्रतिज्ञा, सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्ति-कवलादिभिराद्यन्तयो_ना मध्ये च वृद्धति, वज्रमध्या तु याऽऽद्यन्तवृद्धा मध्ये हीना चेति ।।
सू० २५२] चत्तारि अस्थिकाया अजीवकाया पन्नत्ता, तंजहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पोग्गलत्थिकाए । चत्तारि अत्थिकाया अरूविकाया पन्नत्ता, तंजहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, जीवत्थिकाए ।
[टी०] प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्रम्अत्थिकाय त्ति, ‘अस्ति' इत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाऽजीवकायाः अचेतनत्वात्। अस्तिकाया मूर्तामूर्ता भवन्तीत्यमूर्तप्रतिपादनायाऽरूप्यस्तिकायसूत्रम्, रूपं मूर्त्तिवर्णादिमत्त्वम्, तदस्ति येषां ते रूपिणः, तत्पर्युदासादरूपिणः अमूर्त्ता इति ।
[सू० २५३] चत्तारि फला पन्नत्ता, तंजहा-आमे णामं एगे आममहुरे १, आमे णामेगे पक्कमहुरे २, पक्के णामेगे आममहुरे ३, पक्के णामेगे पक्कमहुरे