SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६१ चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । एवं जाव लोभे वेमाणियाणं २४ । चउव्विधे कोधे पन्नत्ते, तंजहा-अणंताणुबंधिकोधे, अपच्चक्खाणे कोधे, पच्चक्खाणावरणे कोधे, संजलणे कोधे । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । चउब्विहे कोधे पन्नत्ते, तंजहा-आभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते, उवसंते, अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे जाव वेमाणियाणं २४ । [टी०] अनन्तरं संवास उक्तः, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह- चत्तारि कसायेत्यादि, तत्र कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, अथवा कषति हिनस्ति देहिन इति कषं कर्म भवो वा, तस्याऽऽया लाभहेतुत्वात् कषं वा आययन्ति गमयन्ति देहिन इति कषायाः, उक्तं च कम्मं कसं भवो वा कसमाओ सिं जओ कसायातो। कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥ [विशेषाव० १२२८, २९७८] त्ति । तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकर्मैव वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम् अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वञ्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनम् अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । __ एवमिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । चउप्पइट्ठिए त्ति चतुर्यु आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र आयपइट्ठिए त्ति आत्मापराधेनैहिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः, परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः, आत्म-परविषय उभयप्रतिष्ठितः, आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्रतिष्ठितः, उक्तं च
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy