SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ वियइ त्ति विगतिर्विगमः, सा चैकोत्पादवदिति । वियच्च त्ति विकृतेः [विगतेः ] प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा शरीरं विगतार्चा, प्राकृतत्वादिति, सा चैका सामान्यादिति । [सू० १७] एगा गती । एगा आगती । - [सू० १८] एगे चयणे । [सू० १९] एगे उववाए । [टी०] गइ त्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैकदैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा । आगइ त्ति आगमनमागतिः नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति । चयणे त्ति च्युतिः च्यवनम्, वैमानिक-ज्योतिष्काणां मरणम्, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति । उववाए त्ति उपपतनमुपपातो देव-नारकाणां जन्म, स चैकश्च्यवनवदिति । [सू० २०] एगा तक्का । [सू० २१] एगा सन्ना । [सू० २२] एगा मना । [सू० २३] एगा विन्नू। [टी०] तक्क त्ति तर्कणं तर्का विमर्शः, अवायात् पूर्वा ईहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधा इह घटन्त इतिसम्प्रत्ययरूपा, ईहा वा, एकत्वं तु प्रागिवेति । सन्न त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः, आहार-भयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति । मन्न त्ति प्राकृतत्वान्मननं मतिः, कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति यावत्, आलोचनमिति केचित् । एगा विन्नु त्ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत् । [सू० २४] एगा वेयणा । [सू० २५] एगे छेयणे । [सू० २६] एगे भेयणे । [सू० २७] एगे मरणे अंतिमसारीरियाणं ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy