SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४४ चतुर्थ उदायिनृपमारकवत् कालशौकरिकवद्वेति २ । ___ एवं दृष्टान्त-दार्टान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह- उन्नत: तुङ्गतया एको वृक्षः उन्नतपरिणतः अशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येकः, द्वितीये भङ्गे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीय-चतुर्थी वाच्यौ । विशेषसूत्रता चास्य पूर्वमुन्नतत्व-प्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दाान्तिके ऽपि परिणतसूत्रमवगन्तव्यमिति ४ । __परिणामश्चाऽऽकार-बोध-क्रियाभेदात् त्रिधा, तत्राऽऽकारमाश्रित्य रूपसूत्रम्, तत्र उन्नतरूपः संस्थाना-ऽवयवादिसौन्दर्यात् ५ । गृहस्थपुरुषोऽप्येवम्, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६।। बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमनाः प्रकृत्या औदार्यादियुक्तमनाः, एवमन्येऽपि त्रयः ७ । एवमिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थम्, सङ्कल्पो विकल्पो मनोविशेष एव विमर्श इत्यर्थः, उन्नतत्वं चास्यौदार्यादियुक्ततया सदर्थविषयतया वा ८ । प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया ९। तथा दर्शनं दृष्टिः चक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यविसंवादितयैवेति १० । क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलं समाधिस्तत्प्रधानस्तस्य वाऽऽचार: अनुष्ठानं शीलेन वा स्वभावेनाचार इति, उन्नतत्वं चास्यादृषणतया, वाचनान्तरे तु शीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति ११, व्यवहारः अन्योन्यदान-ग्रहणादिविवादो वा, उन्नतत्वमस्य श्लाघ्यत्वेनेति १२ । पराक्रमः पुरुषकारविशेषः परेषां वा शत्रूणामाक्रमणम्, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति १३, उन्नतविपर्ययः सर्वत्र प्रणतत्वं भावनीयमिति, एगे पुरिसेत्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमिति यावत्, इह मनःप्रभृतीनां दार्टान्तिकपुरुषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy