________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२४१ अथवा इन्द्रिय-कषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थम्, यतः
एक्कं चिय एत्थ वयं निद्दिष्टं जिणवरेहिं सव्वेहिं । पाणाइवायविरमणमवसेसा तस्स रक्खट्ठा ॥१॥ [ ] इति ।
एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह– समाधिबहुल:, समाधिस्तु प्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह- लूहे रूक्षः शरीरे मनसि च द्रव्य-भावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्ममलमपनयतीति लूषः, कथमसावेवं संवृत्त इत्याह- यतः तीरट्ठी, तीरं पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरट्ठीति, अत एवाह उवहाणवं ति उपधीयते उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः, तद्वान्, अत एव दुक्खक्खवे त्ति दुःखम् असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह- तवस्सीति, तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, तस्स णं ति यश्चैवंविधस्तस्य, णं वाक्यालङ्कारे, नो तथाप्रकारम् अत्यन्तघोरं वर्द्धमानजिनस्येव तपः अनशनादि भवति, तथा नो तथाप्रकारा अतिघोरैवोपसर्गादिसम्पाद्या वेदना दुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेतं पुरुषजातं पुरुषप्रकारो दीर्पण बहुकालेन पर्यायेण प्रव्रज्यालक्षणेन करणभूतेन सिध्यति अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततो मुच्यते भवोपग्राहिकर्मभिः, ततः परिनिर्वाति सकलकर्मकृतविकारव्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवतीत्याह- सर्वदुःखानामन्तं करोति, शारीर-मानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः ? इति शङ्कापनोदार्थमाह– जहा से इत्यादि, यथाऽसौ प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा, चत्वारोऽन्ताः पर्यन्ताः पूर्व-दक्षिण-पश्चिमसमुद्र-हिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता, तस्या अयं