________________
[सू० ८] एगे पुण्णे । एगे पावे ।
[टी०] मोक्षश्च पुण्य-पापक्षयाद्भवतीति पुण्य-पापयोः स्वरूपं वाच्यम्, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधात् पुण्यं तावदाह- एगे पुण्णे, पुण शुभे [पा० धा० १४२०] इति वचनात् पुणति शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं शुभकर्म सद्वेद्यादि द्विचत्वारिंशद्विधम्, यथोक्तम्
सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९ पंचेंदियजाति १० तणुपणगं १५ ॥ अंगोवंगतियं पि य १८ संघयणं वज्जरिसहनारायं १९ । पढम चिय संठाणं २० वन्नाइचउक्क सुपसत्थं २४ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ । सुपसत्था विहायगई ३० तसाइदसगं च ४० णिम्माणं ४१ ॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ ॥ [ ] त्ति ।
एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धि-पापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति ।
पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह- एगे पावे, पांसयति गुण्डयत्यात्मानं पायति चात्मन आनन्दरसं शोषयति क्षपयतीति पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, यथाऽऽहनाणंतरायदसगं १० दंसण णव १९ मोहणीय छव्वीसं ४५ । अस्सायं ४६ निरयाउं ४७ नीयागोएण अडयाला ४८ ॥ निरयदुर्ग २ तिरियदुर्ग ४ जाइचउक्कं च ८ पंच संघयणा १३ । संठाणा वि य पंच उ १८ वन्नाइचउक्कमपसत्थं २२ ॥ उवघाय २३ कुविहयगई २४ थावरदसगेण होंति चोत्तीसं ३४ । सव्वाओ मिलिआओ बासीती पावपगईओ ८२ ॥ [ ]
तदेवं व्यशीतिभेदमपि पुण्यानुबन्धि-पापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति ।
[सू० ९] एगे आसवे । एगे संवरे । [टी०] इदानीमनन्तरोक्तयोः पुण्य-पापकर्मणोर्बन्धकारणनिरूपणायाह- एगे आसवे,