SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१२ घणोदहिमेएजा, तते णं से घणोदधी एइए समाणे केवलकप्पं पुढविं चालेजा, देवे वा महिड्डिते जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इढिं जुतिं जसं बलं वीरियं पुरिसक्कारपरक्कम उवदंसेमाणे केवलकप्पं पुढविं चालेजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्चेतेहिं [ठाणेहिं केवलकप्पा पुढवी चलेजा] । [टी०] अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोक्तेत्यधुना भङ्ग्यन्तरेण सामान्यपृथिवीदेशवक्तव्यतामाह-तिहीत्यादि स्पष्टम्, केवलं देश इति भाग:, पृथिव्याः रत्नप्रभाभिधानाया इति, अहे त्ति अध:, ओराल त्ति उदारा बादरा निपतेयुः विस्रसापरिणामात् ततो विचटेयुरन्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, तए णं ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति । महोरगो व्यन्तरविशेष:, महिड्डिए परिवारादिना, यावत्करणात् महज्जुइए शरीरादिदीप्त्या, महाबले प्राणतः, महाणुभागे वैक्रियादिकरणतः, महेसक्खे महेश इत्याख्या यस्येति, उन्मग्ननिमग्निकाम् उत्पतनिपतां कुतोऽपि दादे: कारणात् कुर्वन् देशं पृथिव्याश्चलयेत्, स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपति-विशेषाणां परस्परं सङ्ग्रामे वर्त्तमाने जायमाने सति देसं ति देशश्चलेदिति, इच्चेएहिं त्यादि निगमनमिति। पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तायास्तदाह- तिहिं ति स्पष्टम्, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अत: परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी भूः, अहे त्ति अधो घनवात: तथाविधपरिणामो वातविशेषो गुप्येत् व्याकुलो भवेत्, क्षुभ्येदित्यर्थः, तत: स गुप्त: सन् घनोदधिं तथाविधपरिणामजलसमूहलक्षणमेजयेत् कम्पयेत्, तए णं ति ततोऽनन्तरं स घनोदधिरेजित: कम्पित: सन् केवलकल्पां पृथिवीं चलयेत्, सा च चलेदिति, देवो वा ऋद्धिं परिवारादिरूपाम्, द्युतिं शरीरादेः, यश: पराक्रमकृतां ख्यातिम्, बलं शारीरम्, वीर्यं जीवप्रभवम्, पुरुषकारं साभिमानं व्यवसायम्, निष्पन्नफलं तमेव पराक्रममिति, बल-वीर्याधुपदर्शनं हि पृथिव्यादिचलनं विना न भवतीति तद्दर्शयंस्तां चलयेदिति । देवाश्च वैमानिका असुरा: भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्- किंपत्तियण्णं
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy