SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । २०५ तथा- शल्यं कामा विषं कामाः कामा आशीविषोपमाः । कामानभिलषन्तोऽपि निष्कामा यान्ति दुर्गतिम् ॥ [ ] इत्यादीनि । [सू० १९५] तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ? सवणफला । से णं भंते ! सवणे किं फले ? णाणफले । से णं भंते ! णाणे किंफले ? विण्णाणफले । एवमेतेणं अभिलावेणं इमा गाहा अणुगंतव्वा सवणे णाणे य विन्नाणे पच्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरि णिव्वाणे ॥१३॥ जाव सा णं भंते ! अकिरिया किंफला ? निव्वाणफला । से णं भंते! णिव्वाणे किंफले ? सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो ! ॥ तइयस्स तृतीयः॥ [टी०] अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह-तहारूवेत्यादि पाठसिद्धम्, केवलं पर्युपासना सेवा, श्रवणं फलं यस्या: सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञानं श्रुतज्ञानम्, विज्ञानम् अर्थादीनां हेयोपादेयत्वविनिश्चय:, एवमिति पूर्वोक्तेनाऽभिलापेन से णं भंते ! विन्नाणे किंफले?, पच्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, सवणेत्यादि, भावितार्था, नवरं प्रत्याख्यानं निवृत्तिद्वारेण प्रतिज्ञाकरणम्, संयम: प्राणातिपाताद्यकरणम् । __ अनाश्रवो नवकर्मानुपादानम् । अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति। व्यवदानं पूर्वकृतकर्मवनलवनं दाप् लवने [पा० धा० १०५९] इति वचनात्, कर्मकचवरशोधनं वा दैप् शोधने [पा० धा० ९२४] इति वचनादिति । अक्रिया योगनिरोधः, निर्वाणं कर्मकृतविकारविरहितत्वम् । सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिः लोकाग्रम्, सैव गम्यमानत्वाद् गतिः, तस्यां गमनम्, तदेव पर्यवसानफलं सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत् सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं मया
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy