________________
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगम: १, संग्रहणं भेदानां सङ्ग्रह्णाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवह्रियते वा तेन विशेषेण वा सामान्यमवह्रियते निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारो विशेषमात्राभ्युपगमपर: ३, एतेषां नयानां मतेनेति गम्यम् । ऋजु अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु वा अतीतानागतवक्रपरित्यागाद्वर्त्तमानं वस्तु सूत्रयति गमयतीति ऋजुसूत्रः, स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपर: ४, शप्यते अभिधीयतेऽभिधेयमनेनेति शब्दो वाचको ध्वनि:, नयन्ति परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नया:, शब्दप्रधाना नया: शब्दनया:, ते च त्रय:-शब्द-समभिरूढैवंभूताख्या:, तत्र शपनमभिधानं शप्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति ५, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहति आश्रयति य: स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्र-पुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घट-पटादिवदिति ६। यथा शब्दार्थो घटते चेष्टत इति घट इत्यादिलक्षण: एवमिति तथा भूत: सत्यो घटादिरर्थो नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्य-र्थाविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिवेति ७ । तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतम् । चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावा: कदाचनापि भवन्तीति, यत आह
वत्थु वसइ सहावे सत्ताओ चेयणव्व जीवम्मि । न विलक्खणत्तणाओ भिन्ने अन्यत्र छायातवे चेव ॥ [विशेषाव० २२४२] त्ति ।